________________ 618 काव्यमाला। लीलादिषु प्रियजनचेष्टानुकृतिलोला यथा'जं जं करेसि जं जं जप्पसि जै जं णिअच्छेसि / .. तं तमणुसिक्खेरीए दीहो दिअहो ण संपडइ // 152 / / " [यद्यत्करोषि यद्यजल्पसि यद्यन्निरीक्षसे / तत्तदनुशिक्षणशीलाया दीर्घा दिवसो न संपद्यते // नेत्रभूवनकर्मणां विशेषणे लसनं विलासो यथा'सभ्रूविलासमथ सोऽयमितीरयित्वा सप्रत्यभिज्ञमिव मामवलोक्य तस्याः / अन्योन्यभावचतुरेण सखोजनेन / मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः // 153 // " विभूषणादीनामनादरविन्यासो विच्छित्तिर्यथा 'अङ्गानि चन्दनरजःपरिधूमराणि , ताम्बूलरागसुलभोऽधरपल्लवश्च / अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विभवश्च शेषः // 154 / / विभूषणादीनामस्थानप्रयोगो विभ्रमो यथा 'चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे / प्रियं प्रति प्रेषितचित्तवृत्ति नितम्बबिम्बे च बँभार हारम् // 155 // ' / 1 'जह तुम' काव्यमालामुद्रितगाथासप्त०. 2. 'शिक्खिरीए' ख., 'सिनिखरीए' इत्यपि गाथासप्त०, 3. 'बबन्ध' ग.घ.