________________ 610 काव्यमाला। वाप्यां न रज्यति न चात्ति मृणालखण्डं चक्रः क्षपासु विरहे खलु चक्रवाक्याः // 118 // विषयस्त्रिधा-चेतनः, तिर्यग् , अचेतनश्च // तेषु चेतनो यथा। 'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः _____ स चायं दुष्टात्मा स्वसुरपकृतं येन मम तत् / इतस्तीव्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति मनः // 119 // ' तिर्यग् यथा'आयाते दयिते मरुस्थलभुवां संचिन्त्य दुर्लङ्घयतां गेहिन्या परितोषबाप्पतरलामासज्य दृष्टिं मुंखे / दत्त्वा पीलुशमीकरीरकवलान् खेनाञ्चलेनादरा दुन्मृष्टं करभस्य केसरसटाभारालग्नं रजः // 120 / / अचेतनो यथा'क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् / समार वारणपतिः परिमीलिताक्ष मिच्छाविहारवनवासमहोत्सवानाम् // 121 // ' ज्ञानं त्रिधा–दृष्टम् , श्रुतम् , अनुमानजं च // 1. 'उद्वीक्ष्य' सुभाषितावलौ, 'उत्प्रेक्ष्य' शार्ङ्गधरपद्धतौ. 2. 'तन्वङ्गया' सुभाषिसावलौ, गेहिन्याः' ख. 3. 'मयि' क.ख. 4. 'लोलाञ्चलेन' शार्ङ्गधरपद्धतौ. 5. 'भारावलग्नं रजः' सुभाषितावली. 6. 'महोत्सवान्तम्' ख.