________________ 5 परिच्छेदः। सरखतीकण्ठामरणम् / आमियोगिकी यथा.. 'अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै रधिकविकसदन्तर्विस्मयस्सेरतारैः। हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्ष रपहृतमपविद्धं पीतमुन्मूलितं च // 84 // सेयमनुरागातिशयसूचकमालतीकटाक्षाभियोगे माधवस्य रैतिरतीवोत्पद्यते // सांप्रयोगिकी यथा'उन्नमय्य सकचग्रहमास्यं चुम्बति प्रियतमे हठवृत्त्यां। . हुहुँ मुञ्च मममेति च मन्दं __ जल्पितं जयति मानधनायाः // 85. // ' अत्र तर्जनार्थ-मोक्षार्थ-वारणार्थानां मन्दं मन्दं प्रयोगान्मानवत्याः संप्रयोगे रत्युत्पत्तिः प्रतीयते // आभिमानिकी यथा 'इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो- . 1. रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः / अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसबस्तु विरहः // 86 // ' ... अत्र रुचिविशेषोऽभिमानस्तत एवंप्राया रतयो भवन्ति // -- 1. 'हृदयमशरण में क. 2. 'रतिरेवोत्पते' 'क.ख. 3. 'बहुलः' ख, 4. 'शिशिरसमृणो' घ.. .. . .... ..... .