________________ काव्यमाला। अत्र जन्मान्तरवासमया निसर्गत इयं भवति // सांसर्गिको यथा'भित्त्वा सद्यः किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः / ... आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति // 81 // अत्र शैत्यसौरभादिभिर्विरहिर्जनोद्वेजनीया अपि वायवः प्रियतमाङ्गसंसर्गसंभावनया समाश्लिष्यन्त इति संसर्गत इयं भवति // औपमानिकी यथा'अपि जनकसुतायास्तच्च तच्चानुरूपं स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति / ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो रभिनवशतपत्रश्रीमदास्यं प्रियायाः // 42 // सेयं सीताविषयिणी रतिस्तदुपमानदर्शनेन रामं रमयेति / / आध्यात्मिकी यथा'कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् / बलवत्तु दूयमानं प्रत्याययतीव मे चेतः // 83 // अत्र सेयं दुर्वाससः शापाद्विस्मृतविवाहादिवृत्तान्तस्य दुष्यन्तस्य शकुन्तलायां रतिरध्यात्मं भवति // 1. 'पूर्व स्पृष्टम्' क.ख. 2. 'विरहिण उद्वेजनीया' क.ख. 3. 'समालिङ्गयन्त इति संसर्गादियं रतिभवति' क.ख. 4. 'शतपत्रग्रीव' क. 5. 'रमयते' क.ख, 6. 'कामं प्रत्यादिष्टम्क ..... . ..