________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 573 संगमस्य तस्याकस्मिकदर्शनेनोंदीप्यमाना सेद्यःसमुपजायमानसात्त्विक खेदस्तम्भवेपथूपलक्षितैहर्षस्मृत्यावेगसाध्वसादिभिर्व्यभिचारिभावैः पैदनिक्षेपलक्षणेन च शरीरानुभावेन संसृज्यते / सोऽयं विभावानुभावव्यभिचारिसंयोगे रतिरूपेण रसो निष्पद्यते। रतिरूपेणैव रसंपुष्टिर्यथा'पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनं पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः। .. खावासानुपघातनिर्वतमनास्तत्कालमीलदृशे / यस्मै सोऽच्युतनाभिपद्मवसतिर्वेधाः शिवं ध्यायति // 8 // अत्र सर्वदैव श्रीवत्सलक्ष्मणो लक्ष्मीविषये महाकुलीनतौदार्यस्थिरानुरागितारूपयौवनपैदम्ध्यशीलसौभाग्यमहाभाग्यादिभिः समुत्पन्ना रतिस्तदवयवविशेषकामनीयकविभावनेनोद्दीपनविभावातिशयेनोद्दीप्यमानां ब्रह्मणः समक्षमप्यालिङ्गनलक्षणेन शरीरारम्भानुभावेनानुमीयमानां लज्जाप्रणाशलक्षणां प्रेमपुष्टरष्टमीमवस्थामध्यास्ते / अत्र चानुक्ता अफि सात्त्विका व्यभिचारिणोऽन्येऽपि चानुभावविशेषाः प्रतीयन्ते। श्रियोऽपि च समग्रात्मगुणसंपदाश्रये श्रीवत्सलक्ष्मणि तथाभूता तदभ्यधिका वा रतिः प्रवृद्धप्रेमप्रियतमालिङ्गनलक्षणेनोद्दीपनविभावेनोद्दीप्यमाना नयननिमीलनानुमेयां समस्तसात्त्विकानुभावव्यभिचारिहेतुं प्रेमपुष्टेरुत्तमामवस्थामाश्रयति / सोऽयं विषयसौन्दर्यादाश्रयप्रकृतेः संस्कारपाटवादुद्दीपनातिशयाच्च परां कोटिमावहून् रसः पुष्ट इत्युच्यते / अत्रैव ब्रह्मणः श्रियं प्रति मनोहरा ममेयं सृष्टिरिति, रत्नाकरस्येयमात्मजेति, चन्द्रा. . 1. 'हर्षधतिस्मृत्यावेग-' क.ख. 2: 'व्यभिचारिभिर्भावैः' क.ख. 3. 'विक्षेपलक्षणेन' क.ख. 4. 'संयोगैः' क.ख.५. 'रतिपुष्टिः' क. 6. 'च' घ. 7. 'रुत्तराख.