________________ 572 काव्यमाला.। ___-अत्र देव्याः स्मरौ पूर्वमुत्पन्ना रतिः साभिलाषतदवलोकन विविक्तवसन्तादिभिरुद्दीप्यमाना रोमाञ्चावहित्थलक्षणाभ्यां सात्त्विकव्यमिचारिभ्यामनुबध्यते // .. एकस्यैव पुनः पुनर्यथा- ... 'यान्त्या मुहुर्वलितकंधरमाननं त दावृत्तवृन्तशतपत्रनिभं वहन्त्या / दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या - गाढं निखात इव मे हृदये कटाक्षः // 6 // अत्र मालत्या माधवविषये पूर्वमुत्पन्ना रतिर्वसन्तावतारैतत्संनिधिविशेषप्रदर्शनादिभिरुद्दीप्यमाना पुनः - पुनरुत्पन्नेन वलितग्रीवकटाक्षविक्षेपलक्षणेन शरीरारम्भानुभावेनानुबध्यते / अत्रैव माधवस्य मालतीविषये तदहरेवोत्पन्ना रतिस्तैरेवोद्दीपनैरुद्दीप्यमाना हर्षधृतिस्मृतिमतिव्याध्यादिभिः संचारिभावैर्वागारम्भेण चानुभावेनानुबध्यते // रतिरूपेणैव रसनिष्पत्तिर्यथा'तं वीक्ष्य वेपथुमती सरसामयष्टि निक्षेप॑ एव पदमुद्धृतमर्पयन्ती / मार्गाचलव्यतिकराकुलितेव सिन्धुः ........ . शैलाधिराजतनया न ययौ न तस्थौ // 7 // - अत्र जन्मान्तरानुभवसंस्कारात्प्रतिकूलेऽपि शूलिनि शैलात्मजायाः सर्वकालमेवाविच्छिन्ना रतिश्चिरवियुक्तस्य दुश्चरेणापि तपसा प्रार्थनीय. 1. 'शिवे' घ. 2. 'तदवलोकनेन' क.स. 3. 'पुनःपुनरुत्पत्तिर्यथा' ख. 4. 'वसन्तावतारतः संनिधिविशेष' घ. 5. 'अत्र च' घ. पुस्तके पाठान्तरम्. 6. 'निक्षेपणाय' क.ख. मुद्रिते. 7. 'मुद्धृतमुद्वहन्ती' कुमारसंभवस्य मुंद्रितपाठः. 8. 'शिचायाः' घ. 9. 'चिरं वियुक्तस्य' क.ख.