________________ 3 परिच्छेदः / सरखतीकण्ठाभरणम् / 389 कटमिति येयं .संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदिदमननुभूतविषयमुपमानं नैयायिकाः समुन्नयन्ति // तदाभूतार्थविज्ञानजनकत्वेन हेतुना / नासादभिनयालेख्यमुद्राबिम्बादयः पृथक // 51 // तेष्वभिनयो यथा'वइविवरणिग्गअदलो एरण्डो साहइ व तरुणाणम् / एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ // 166 // ' [वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः / अत्र गृहे हलिकवधूरेतावन्मात्रस्तनी वसति // ] अत्र पयोधरातिपरिणाहसूचकोत्तानप्रसारिताङ्गुलिहस्ताभिनयसंनिभैरण्डदलसंनिवेशनात्खयमुद्दिष्टेऽपि हालिकवधूस्तनपरिणाहे पूर्वानुभूतैवंविधस्तनपरिणाहसंबन्धप्रतिपत्तिस्तदिदमनुभूतार्थविषयमुपमानमेवाभिनय इत्युत्प्रेक्ष्यते // . वइविवरेति / ग्रामतरुणैरनन्यबद्धान्तःकरणैर्हालिकवधूस्तनाभोगो मुसलोल्लासनादौ वारंवारमनुभूतः स तुल्याकारधृतविवरप्रसूनैरण्डदलदर्शनादेव बुद्धिमारोहतीति सा बुद्धिमीमांसकोपमितिमध्यमध्यास्ते / कथमेरण्डदलसंनिवेशस्याभिनेयता / अनुकारो ह्यभिनयः / न चासो तत्र संभवति / अत आह-हस्ताभिनयसंनिभेति / उत्तानप्रसारिताङ्गुलिहस्तसंनिवेशेन वस्त्वन्तरपरिणाहप्रतिबिम्बनं लोकप्रसिद्धं तदिहाप्येरण्डदलविस्तारदर्शनात्तदन्तरितमेव जायत इत्यर्थः॥ आलेख्यं यथा- . .. 'तवालेख्ये कौतूहलतरलतन्वीविरचिते विधायैका चक्रं रचयति सुपर्णासुतमधः / अथ विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति // 167 //