________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / जानामि सत्यमनुमानत एव स त्व . मित्थं गिरो गिरिभुवः कुटिला जयन्ति // 348 // सेयमावाक्यपरिसमाप्तेर्निर्वाहान्नियूटेति वक्रोक्तिर्वाकोवाक्यम् // अनियूंढा यथा'केयं मूर्ध्यन्धकारे तिमिरमिह कुतः सुभ्र कान्तेन्दुयुक्ते. __ कान्ताप्यत्रैव कामिन्ननु भवति मया पृष्टमेतावदेव / नाहं द्वन्द्वं करोमि व्यफ्नय शिरसस्तूर्णमेनामिदानी- : - मेवं प्रोक्तो भवान्या प्रतिवचनजडः पातु वो मन्मथारिः // 349 // ' - सेयमनिर्वाहादनियूंढेति वक्रोक्तिर्नाम वाकोवाक्यम् / ते इमे उभे अपि श्लेषवक्रोक्तिर्नाम वाकोवाक्यम् // . वैयात्योक्तिर्द्विधा / खाभाविकी नैमित्तिकी चेति / तयोः खाभाविकी यथा'नादेयं किमिदं जलं घटगतं नादेयमेवोच्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाभवन् / किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे // 350 // ' अत्र खैरिण्याः सहजाद्वैयात्यात्वाभाविकीयं वैयात्योक्तिर्नाम वाको. वाक्यम् // नैमित्तिकी यथा'कुशलं राधे, सुखितोऽसि कंस कंसः क नु सा राधा / इति पारीप्रतिवचनैर्विलक्षहासो हरिर्जयति // 351 // . अत्र गोत्रस्खलिते विपक्षनाम्नैव वैयात्येनोचरं दत्तमिति नैमित्तिकीयं वैयात्योक्तिर्वाकोवाक्यम् //