________________ 2 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 295 शब्दावयवश्व: नामिमीते मातेति शब्दावयवश्व मा / तदर्थो युष्मदर्थश्च लक्ष्मीसंबोधनं च ते / युष्मदर्थो भावप्रत्ययः शब्दावयवश्च त्वम् / शब्दावयवास्मदीः च मे / जलयानं न विद्यते और्द्विवचनं यस्यां सा अद्वितीयेत्यर्थः शब्दावयवश्च नौः। . पदग्राहाद्यथाकामं कामधेनुरियं तु नः। परार्धानां परार्धानि प्रसूते श्लोकतर्णकान् // 124 // एकाक्षरादिच्छन्दोभिर्गतिबन्धादिभेदतः / उक्तानुक्तानि चित्राणि सर्वाण्येषा प्रसूयते // 125 // सकृदुच्चारणे चास्या गच्छत्येका विनाडिका / तत्षष्ट्या नाडिका ताभिः षष्ट्याहोरात्रमृच्छति // 126 // प्रणवादिनमोन्तानि पदान्यस्या जपन्ति ये। सर्वभाषासु वाक्तेषामविच्छिन्ना प्रवर्तते // 127 // सिद्धर्मत्रपदैः सेयं शास्त्राण्यालोच्य निर्मिता। जपतां जुह्वतां देवी सर्वान्कामान्प्रयच्छति // 128 // स्थितेनागन्तुकं इत्यादीप्सितेन विभाजयेत् / तद्भेदास्ते भवन्त्येवमन्येष्वपि हि योजयेत् / / 129 // दुष्करत्वात्कठोरत्वादुर्बोधत्वाद्विनावधेः। ... दिमानं दर्शितं चित्रे शेषमूह्यं महात्मभिः // 130 // .. या गीरिति। पदग्रहादिति / तथाहि पञ्चदशभ्यः पदेभ्यः क्रमव्युत्क्रमाभ्यां नवादिपदयोगेऽङ्गीक्रियमाणे बृहतीजातेरारभ्य प्रतिजातिपादे ये विकल्पास्तैरुत्तरोत्तरमाइन्यमानैः, यदि वा समस्तेऽपि श्लोके षष्टिपदेभ्यश्चतुर्विंशत्यष्टाविंशत्यादिपदयोजनायां गायत्रीजातेरारभ्य प्रतिजतिपादे ये विकल्पास्तैः परार्धेभ्यः परार्धानि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयं पराधपरार्धधेनुः / एकाक्षरेति / अर्थत्रयप्रतिपादकत्वेन प्रतिपादं पदत्रये परिकल्प्यमानेऽनेकविधच्छन्दोभिरुक्तानि चतुर्व्यअनादीन्यनुक्तानि खड्गप्रभृतीनि सर्वचित्राण्येषैव यथाकामं प्रसूयते इत्यर्थः॥