________________ 294 काव्यमाला / : शीः शृणातीति शीः। श्रयतीति शोभा लक्ष्मीश्च श्रीः / ध्यानं ध्यायतीति बुद्धिीः / स्येव स्तृणाति मन्त्राक्षरं स्त्री। हीच्छतीति माया लज्जा च ह्रीः। बिभेतीति भयकामो भयं च भीः / ज्वरो गतिर्जरा च जूः / मूर्छा मोहसमुच्छाययोर्बन्धनं च मूः / त्वरा हिंसा त्वरते च तूः। सूयते सवनं सुष्ठ उश्च सूः / अग्रे भागे भारं धुरं वहतीति धूः। पूरी पालनं पूरणं च पूः। भूमिभवनं लोकश्च भूः / यज्ञपात्रं स्रवतीति स्रवणं सुक् / पुष्पमाला पतिश्च सृज्यत इति स्रक् / योगः समाधिः समश्च युक्। भोजनं पालनं कौटिल्यं च भुक रोगो दीप्तिर्भङ्गश्च रुक्.। शोकः शुचित्वं दीप्तिश्च शुक् / अभिलाषः पिपासा। हिंसा च तृट् / द्वेषः शत्रुबलमभिलाषश्च द्विट्। शुद्धं मिश्रणममिश्रणं च युत् / क्रोधः क्रुध्यतीति रुद्रशक्तिश्च क्रुत् / चेतना चिनोति चयनं च चित् / ज्ञानं सत्ता विभवलाभश्व वित् / मोक्षो मोहो मुञ्चतीति मुक् / आशा अतिसर्ग उपदेशश्च दिक् / क्रीडा विजिगीषा व्यवहारश्च युः / श्रुतिवाक्यं विवेचनं च हिंसा च ऋक् / दृष्टिर्ज्ञानं पश्यतीति दृक् / गतिर्गन्धनं विकल्पश्च वा। लक्ष्मीर्मानं शब्दावयवश्व मा / मृत्तिका मरणं मुद्गातीति मृत् / कृन्तति करोति करणं च कृत् / दीप्तिर्भानं भातीति भा। शब्दः शब्दावयवश्व प्रतिषेधश्च मा / हर्षो मोद आमोदश्च मुत् / बुभुक्षा क्षुत्क्षोदश्च क्षुत् / प्रश्नः सुखं काननं च का। अमतीत्यमा पीडार्थेऽलक्ष्मीशब्दावयवश्व अमा / द्वारं द्वाःस्थ उपायश्च द्वाः / स्वर्ग आकाशो देवनं च द्यौः / वाग्भूमिर्धेनुश्च गौः / सह एन अकारेण विष्णुना वर्तत इति सा लक्ष्मीः / मा मानं / तदो रूपं च सा / प्रतिदानं शब्दावयवश्वसर्वनाम च सा / इष्टा अयत इति शब्दावयवश्च या / चन्द्रकला महदर्थश्च मा / लक्ष्मीसंबोधनं चतुर्थ्यन्तं षष्ठयन्तं च मे / धारणं पोषणं शब्दावयवश्व वे / धात्री पोषयित्री शब्दावयवश्च धा। शब्दावयवोऽस्मदर्थो लक्ष्मीसंबोधनं च मे / प्रतिषेधः पुरुषवाची