________________ 2 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 237 परिनुत् मदिरा। पृषत्का बाणाः। पञ्चमः खरविशेषस्तद्भूयिष्ठो ध्वनिः पञ्चमध्वनिः॥ अन्तःस्थानुप्रासवती द्राविडी यथा 'प्रियाललवलीतालतमालैलावनावली / ____भाति पत्रलहिन्तालकृतपुण्ड्रा वरिव // 183 // ' पत्रलाः सान्द्रपत्राः / सिध्मादेराकृतिगणत्वाल्लच् / पुण्ड्रं तिलकः / अत्र लकारवकारानुप्रासाभ्यां संदर्भनिर्वाहः // ऊष्मानुप्रासवती माथुरी यथा 'पुष्णती पुष्पधनुषं मुष्णती प्लोषविपुषः / मिषन्ती निर्निमेषेण चक्षुषा मानुषी न सा // 184 // ' प्लोषो विरहदाहस्तस्य विग्रुषस्तीक्ष्णा भागाः। तेऽमी सप्त शुद्धा एव वृत्त्यनुप्रासाः॥ द्वित्रिवर्गानुप्रासवती मात्सी यथा-- . 'कोकिलालापवाचालो मामेति मलयानिलः / उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः // 185 // संकीर्णाः पुनरन्ये पश्च भवन्ति / तत्र संकरो द्विधा-विजातीयसंवलनम् , मिथः संभेदेन संयोगरूपता च / कोकिलालापेत्यादौ कवर्गान्तःस्थचवर्गानुप्रासाः स्फुटा एव / संयोगस्तु विद्यमानोऽपि न विवक्षितः // . द्वाभ्यां विदर्भितैकवा मागधी यथा 'अघौघं नो नृसिंहस्य घनाघनघनध्वनिः / हन्या रुघुराघोरः सुदीर्घो घोरघर्घरः // 186 // ' विदर्भितः खान्तरायेण वैदर्भाप्रपञ्चशोभामानीतः / घुरघुरेत्यव्यक्तानुकरणम् / अत्रासमाप्ति कवर्गानुप्रासस्तवर्गान्तःस्थानुप्रासाभ्यां विदर्भितः / एवमन्यत्रापि वैदी गवेषणीया // खान्त्यसंयोगिवर्या ताम्रलिप्तिका यथा 'शिञ्जानम मञ्जीराश्चारुकाञ्चनकाञ्चयः / कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः // 187 // "