________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् / 235 अत्र दन्त्यतालव्यानामैक्येन तुल्यश्रुतिनेत्युपनागरोऽयं श्रुत्यनुप्रासः / सर्वेऽपि चानुपासाः प्रायेण विसदृशवर्णान्तरिता एव खदन्ते इत्यौष्ठ्यकण्ठ्यादीनामिहानुप्रवेशो भवति // विद्यास्यन्दः सारखतप्रवाहः सैव वाग्देवता शब्दब्रह्मरूपा तच्चिन्तया परब्रह्माधिगमनिःश्रेणीभूतया शोकस्य इष्टहानिजखेदस्य विच्छेदः / अत्र स्यन्दः प्रसन्न इति दन्त्यो सकारौ, ब्रह्माणश्चेतयन्तो विशोका इत्यादेशानादेशो शकारौ तालव्यौ, पुनरन्ते सा सूनृतानीति त्रयो दन्त्याः, सर्वेषां संभूय पाठे तुल्यश्रुतितैव प्रतिभासत इति / ननु सजातीयानां निरन्तरमावापे कर्तव्ये किमिति विजातीयव्यवहितैरावृत्तिरुदाहियत इत्यत आह-सर्वेऽपीति // यथा ज्योत्स्ना चन्द्रमसं यथा लावण्यमङ्गनाम् / अनुप्रासस्तथा काव्यमलंकर्तुमयं क्षमः // 76 // श्लेषनिर्वाहकतया श्रुत्यनुप्रासोऽलंकार इत्युक्तम् , तच्च संदर्भव्यापकतयैव निर्वहतीत्याह-यथेति / ज्योत्स्नालावण्ययोः सर्वाङ्गीणा श्लेषसुभगयोरेवालंकारताप्रसिद्धिः॥ . .... . . ... __ अनुप्रासः कविगिरां पदवर्णमयोऽपि यः। सोऽप्यनेन स्तबकितः श्रियं कामपि पुष्यति // 77 // नन्वेवमनुप्रासान्तरविषयेऽपि श्रुत्यनुप्रासः प्रसक्तस्तत्र च किमनेन करिष्यत इत्यत आह-अनुप्रासः कविगिरासिति / उक्तं हि-'न घटनामन्तरेण काव्यभावः / न च काव्यमपहाय वर्णानुप्रासादीनामात्मलाभः' इति // मुहुरावर्त्यमानेषु यः स्ववर्येषु वर्तते / . काव्यव्यापी स संदर्भो वृत्तिरित्यभिधीयते // 78 // ववर्येष्विति / खशब्द आत्मीयवचनः / स्ववर्गे भवाः खवाः कचटतपान्तःस्थोष्मोपलक्षिताः सप्तवर्गाः / खवर्येषु वर्तत इत्यर्थकथनम् / माणिक्यस्तबकितहारलतावदन्योन्यालम्बनेन परभागलाभ इत्यभिप्रायतया च काव्यव्यापकेनैव संदर्भण निरूप्यमाणा वा वृत्तिव॒त्त्यनुप्रास इति पर्यवसितोऽर्थः // . कार्णाटी कौन्तली कौङ्की कौङ्कणी बाणवासिका / द्राविडी माथुरी मात्सी मागधी ताम्रलिप्तिका // 79 //