________________ 234 . काव्यमाला। - उभयगुणयोगादिति / प्रसिद्ध्यप्रसिद्धी द्वौ गुणी / अत्र प्रत्यक्षानुमानरूपोपायभेदादविरोधः / तदेतदन्यमतेन विवृणोति-डलयोरैक्यमिति / सनीङ समीपं जलमज्जनशेषाहिवडवानलानामनर्थनिदानतया प्रख्यातानामपि सेवया महासाहसिकानामग्यता / अत्र डकारलकारयोर्भिन्नश्रुतिता प्रत्यक्षत एव / श्रुतिसाम्यं पुनरनुमानात्प्रतीयते / एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् // नणयोरैक्येन यथा- 'बाणैः क्षुण्णेषु सैन्येषु त्वया देव रणाङ्गणे। - हतशेषाः श्रयन्तीमे शून्यारण्यानि विद्विषः / / 175 // ' अत्र क्षुण्णेषु सैन्येषु शून्यारण्यानीति नकारणकारयोः खल्पश्रुतित्वमेकत्वं वा भासत इति उपनागरोऽयं श्रुत्यनुप्रासः / / क्षुण्णेषु सैन्येष्विति / ग्रन्थिमहिन्ना नकारणकारयोः साम्यप्रतिभासः। रणाङ्गण इति / मध्यवर्तिनां संयोगेन साम्योन्मुद्रणम् / अङ्गणशब्दोऽधिकरणल्युडन्तः / पृषोदरादित्वाण्णत्वव्युत्पादनमनार्षम् / एवं शून्यारण्यानीत्यत्र व्याख्येयम् / आद्यन्तव्याख्यानमुपलक्षणमवसेयम् // रलयोरक्येन यथा'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या / रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः // 176 // ' अत्र करीरनीलैरिति रेफलकारयोरैक्येन तुल्यश्रुत्या चतुर्वपि पादेष्वनुप्रासनिर्वहणमित्युपनागरोऽयं श्रुत्यनुप्रासः / / निरन्तररेफग्रथनालीढस्येव लकारस्य श्रुतिसाजात्यमुल्लिखतीति तदिदमाहअत्र करीरनीलैरिति / एतदनुप्राससिद्ध्या चतुर्वपि पादेषु रेफानुप्रासनिर्वहणमपि कविशक्तिव्युत्पत्तिव्यञ्जकमुपपन्नं भवतीत्याह-चतुर्वपीति // . दन्त्यतालव्यानामैक्येन यथा'विद्यास्यन्दो वाग्विदां यः प्रसन्नः पुण्यां वाचं देवतां तां नमामः / यां ब्रह्माणश्चिन्तयन्ते विशोकाः सा नो देयात्सूनृता सूनृतानि // 177 // '