________________ 232 काव्यमाला। तत्र भेदेऽप्येकत्वबुद्ध्या समानस्थानयोर्यथा'हरेलवितधर्मांशुोम्नि दीर्पण रंहसा / बलिबन्धनघोरोऽभिरंहःसङ्घ निहन्तु वः // 170 // " - अत्र हकारस्य तुल्यस्यातुल्यस्थानेन घकारेण सह भेदेऽप्येकत्वबुद्धेस्तुल्यश्रुतित्वमिति भेदेऽप्येकत्वबुद्ध्या नागरानुप्रासोऽयम् // - ग्राम्यवैपरीत्येनेति / ग्राम्यविरुद्धखभावो हि लोके नागर इत्युच्यते / अतिप्रसिद्धरभावो विरोधस्तेनालंकारसमयोपजीविपञ्चषप्रसिद्धिरनतिप्रसिद्धिरित्युक्तं भवति / एतदेव पूर्वाचार्यमतेन विशदयति-यथोच्यत इति / एकश्रुतिकतया भानं हि श्रुतिसाजात्यमभिमतम् / श्रुतिश्च वास्तवी प्रतिपादनमात्रारूढा वेति न कश्चिद्विशेषः / ततो भेदेऽप्येकत्वबुद्ध्यानुप्राससिद्धिः / तत्त्वे एकत्वे। आपाततः साजाल्यानवभासेऽपि सहृदयप्रणिधानेनावभासनं श्रुत्यनुप्रासप्रयोजकमेव / अनुप्रासस्य / अनुप्रासवतः संदर्भस्येत्यर्थः / विजातीययोरेकजात्यप्रतिबिम्बनं द्विधा भवति स्थानसाम्ये तदसाम्ये च / तयोराद्यमुदाहरति-तत्रेति / दीर्पण रंहसेति, घोरोऽझिरिति, रंहःसङ्घमिति, घकारहकाराणां स्थानसाम्येऽपि वैजात्यमस्त्येव / तथा पठितौ तुल्यवच्छ्रुतिः प्रतिभातीति सहृदयहृदयसाक्षिकोऽयमर्थः // तथैवासमानस्थानयोर्यथा 'उच्छलन्मत्स्यपुच्छाग्रदण्डपाताहताम्भसि / ___ जगदुद्यानमम्भोधावुन्ममज्ज ममज्ज च // 171 // ' अत्रोच्छलन्मत्स्यपुच्छाग्रेत्यत्र त्स्यच्छकारयोरिव त्स्यकारस्यापि तुल्यश्रुतित्वमित्यसमानस्थानत्वेन भेदेऽप्येकत्वबुद्ध्या नागरानुप्रासोऽयम् // अत्र त्स्यच्छकारयोरिति / चछौ तालव्यौ, तसौ दन्त्याविति स्थानमेदः प्रकाश एव / तथापि पिण्डीभूताभ्यां च स्तम्बीभूतमध्यपतितौ तसौ समानश्रुतिकाविति पठितौ साभाग्यमर्पयतः : तेनायमसमानस्थानयोरेकत्वबुद्ध्या नागरानुप्रास इति // तत्त्वेऽप्येकनिह्नवेन डकारवकारयकाराणां यथा- . _ 'क्रोडे मा डिम्भमादाय चण्डि पीडय वक्षसा / कर्णे ब्रूहि वयस्याया युवा यदयमुच्यते // 172 //