________________ 2 परिच्छेदः / सरखतीकण्ठाभरणम् 231 वर्णोत्कटो यथा-... 'विमुच्य सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना / बबन्ध बालारुणबभ्रुवल्कलं पयोधरोत्सेधविशीर्णसंहतिः // 168 // ' अत्र सर्व पूर्ववत् / किंतु तृतीयपादे बबन्ध बालारुणबभ्रुवल्कलमिति वर्णाधिक्ययोगः / सोऽयं वर्णोत्कटो नाम श्रुत्यनुप्रासः // . विमुच्येति / हारोचितसंनिवेशयोरपि स्तनयोरनुचितवल्कलबन्धसंभावने हेतुरहार्यनिश्चयेति / अत एव सा मां कोऽपि वारयेदिति कातरताप्रादुर्भावादितस्ततो विलोलदृष्टिः / अत्र हकारमकारावोष्ठ्यो, चकारयकारौ तालव्यावित्यादिना क्रमेण मसृणा हकारादीनां रूपसाजात्येऽपि मसृणताप्राधान्याद्वर्णमसृणा चावृत्तिरित्याह-अत्र सर्वमिति / वर्णोत्कटत्वं व्याचष्टे-वर्णाधिक्ययोग इति / उद्भटं हि रूपसाजात्यं वर्णोत्कटत्वम् / तच्च सरूपवर्णावृत्त्याधिक्येनेत्यर्थः // वर्णानुत्कटो यथा'ततः प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका / न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि // 169 // ' अत्र दन्त्यवर्णप्रायतयातिमसृणत्वे शिलातलेष्विति दन्त्यवर्णाभ्यामेव वर्णस्तोमो दत्तः / सोऽयं वर्णानुत्कटो नाम श्रुत्यनुप्रासः / तेऽमी चत्वारोऽप्यतिप्रसिद्धतया ग्राम्या उच्यन्ते // ततः प्रभृतीति / तापोद्रेकाद्दत्तं दत्तमेव चन्दनमाश्यानभावेन रेणुभिरलकच्छटासु विशीर्यत इति द्वितीयकामावेशो ध्वनितः / अत्र तकारनकारौ दकारनकारावित्यादिना क्रमेण श्लोकसमाप्तिं यावद्बहवो दन्त्याः / तेनैकश्रुतिव्याप्तस्य संदर्भस्य मसृणतायामतिशयः / शिलातलेति रूपसाजात्येन लकारावुद्भूतश्रुतिकौ / न चाधिकावृत्तिरत्रास्तीत्यनुत्कटता / न च श्रुतेरुद्भवेऽपि मसृणता न प्रकृष्यत इति वर्णानुत्कटोऽयम् / ग्राम्यत्वं व्याचष्टे-तेऽमी चत्वारोऽपीति / श्रुतिसाजात्यस्य शब्दानुशासनेऽपि प्रसिद्धरतिप्रसिद्धत्वम् // ग्राम्यवैपरीत्येन नातिप्रसिद्धो नागरः / यथोच्यते एकत्वबुद्धिर्भेदेऽपि तत्वेऽप्येकत्वनिह्नवः। . यस्य वर्णस्य तं प्राहुरनुप्रासय जीवितम् // 74 //