SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / 123 विशेष्यमानं तु वाक्यार्थे' इति परमार्थः / तेन ‘राधा रहः साक्षिणाम्' इत्यादावावश्यकविधेयसाक्षिभावादिगुणतया राधासंबन्धादीनां वैवक्षिकप्राधान्यानामपि प्रधानत्वाविमर्शो न दोष इत्युक्तं भवति // . श्लिष्टमस्पृष्टशैथिल्यं शिथिलं तद्विपर्ययः। गौडीयैरिष्यते तत्तु बन्धप्राशस्त्यगौरवात् // 126 // यथा 'लीलाविलोलललना ललितालकलालसाः / विलुप्तमालतीमाला जलकालानिला ववुः // 169 / / अत्र शैथिल्यदोषेऽपि बन्धप्राशस्त्येन गौडैराहतत्वाद्गुणत्वम् / / श्लिष्टमिति / पारुष्यशैथिल्याभ्यां विना कृतं श्लिष्टमित्युक्तं तस्य विपर्ययो विपरीतं वाक्यं शिथिलं भवति / परुषमल्पप्राणाक्षरोत्तरं वेत्यर्थः। एवंविधमपि चैतदनुप्राससौष्ठवात्पदानामेकताप्रतिभासे समाधीयत उद्भटानुप्रासतया च कान्तिप्राधान्ये गौडीयरीतिप्राधान्येनं गुणत्वमासादयति तदिदमुक्तम्-बन्धप्राशस्त्यगौरवादिति / गौडीयौंडीयरीतिगोचरहेतुवाक्प्रकर्षशालिभिः // लीलेति / अत्र दन्त्यवर्णमयत्वेनाल्पप्राणाक्षरोत्तरतायामपि पदैकताप्रतिभासानुप्रासयोरुद्रेकः कान्तिप्रकर्षोऽवसेयः // न दोषः क्वापि वैषम्येऽप्यर्थालंकारकारणात् / पौरस्त्यैराहतत्वाच्च शब्दाडम्बरतोऽपि वा // 127 // यथा--- 'चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः / .... स्पर्धते रुद्धमद्धेर्यो वररामानेनानिलैः // 170 // .. .. अत्र सत्यपि वैषम्यदोषे शब्दालंकारगुणादर्थालंकारगुणात्पौरस्त्यैराहतत्वाच्च गुणत्वम् / / .. .. न दोष इति / अर्थालंकारकारणादर्थालंकाररूपम् / यत्र हिशब्दस्यार्थोऽज्यथान्यथारूपं भजते तत्रावश्यं तदनुयायिना पदसंदर्भेण भिन्नरूपेण भाव्यम् / एवमपि छायावैरूप्यं वैरस्यमेवावह तीत्याशय. 'शब्दाडम्बर' इत्युक्तम् / आडम्बर 1. 'लासकाः ' क. 2. 'मुखा' क. 3. 'शब्दवैषम्यदोषे' ग........
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy