________________ (76) पदान्ते / 2 / 1 / 64 / पदान्ते वर्तमानयोर्खादे रकारवकारयोः परयोस्तस्यैव म्वादेर्नामिनो दीर्घः स्यात् / सजूः सजुषौ सजुषः / सजुषं सजुषौ सजुषः। सजुषा सजू• सजूभिः / सजुषे सजूा सजूयः / -सजुषः सजुषोः सजुषाम् / सजुषि सजुषोः सजुःषु सजुष्षु / सकारान्तः पुंस्शब्द: पुंसोः पुमन्स् / 1 / 4 / 73 / .. पुंस् इत्युदितस्तदतत्सम्बन्धिनि घुटि परे पुमन्स् इत्यादेशः स्यात् / 'स्महतोः' इति दीघे पुमान् पुमांसौ पुंमांसः / पुमांस पुमांसौ पुंसः। पुंसा पुम्भ्यां पुम्भिः पुंसे पुम्भ्यां पुम्भ्यः।पुंसः पुम्भ्यां पुम्भ्यः / पुंसः पुंसोः पुंसाम् / पुंसि पुंसोः पुंसु / हे पुमन् पुमांसो पुमांसः। सकारान्तो विद्वस्शब्दः-उदित्त्वाद् नोन्ते विद्वान् विद्वांसो विद्वांसः / विद्वांसं विद्वांसौ / विद्वस्+शस् इति स्थिते क्वसुष् मतौ च / 2 / 1 / 105 / णिक्यघुट्वर्जिते यकारादौ स्वरादौ मतौ च प्रत्यये परे क्वसोः उष् स्यात् / विदुषः। विदुषा 'ख्रस्-ध्वंस्-' इत्यादिना दत्त्वे विद्वद्भ्यां विद्वद्भिः / विदुषे विद्वद्भ्यां विद्वद्भ्यः / विदुषः विद्वद्भ्यां विद्वद्भ्यः / विदुषः विदुषोः विदुषाम् / विदुषि विदुषोः विद्वत्सु / हे विद्वन् विद्वांसौ विद्वांसः / एवं तस्थिवान् तस्थिवांसौ तस्थिवांसः / तस्थिवांसं तस्थिवांसौ तस्थुषः अत्र निमि