________________ (74) अत्वन्तस्यासन्तस्य च भ्वादिवर्जितस्य स्वरस्य शेषे सौ परे दीघः स्यात् / भवान् भवन्तौ भवन्तः / भवन्तं भवन्तौ भवतः। भवता भवद्भयां भवद्भिः / भवते भवद्भयां भवद्भयः। भवतः भवद्भयां भवद्भयः / भवतः भवतोः भवताम् / भवति भवतोः भवत्सु / हे भवन् भवन्तौ भवन्तः। अभ्वादेरिति किम् / पिण्डं असतीति पिण्डग्रः इत्यत्र न दीर्घः। पिण्डग्रस पिण्डग्रसौ पिण्डग्रसः / पिण्डअसा पिण्डग्रोभ्यां पिण्डग्रोभिरित्यादीनि / शतृप्रत्ययान्तस्य भवच्छब्दस्य तु अत्वन्तत्वाभावाद् न दीर्घः / 'ऋदुदितः ' इति नोऽन्ते 'पदस्य ' इति संयोगान्तलोपे भवन् भवन्तौ भवन्तः / भवन्तं भवन्तौ भवतः इत्यादीनि रूपाणि / एवं पठन् पठन्तौ पठन्तः / पठन्तं पठन्तौ पठतः / पठता पठद्यां पठद्भिः / पठते पठद्भयां पठभूयः / पठतः पठद्भयां पठद्भयः / पठतः पठतोः पठताम् / पठति पठतोः पठत्सु / हे पठन् पठन्तौ पठन्तः। एवं कुर्वत्-पचत्गदत्-हरदादयः। दददित्यादौ तु द्विरुक्तानां जक्षादीनां पञ्चानां च नित्यं नोऽन्तस्य प्रतिषेधान पुंलिङ्गे नोऽन्तो न भवति / ददद् ददतौ ददतः। जक्षद् जक्षतौ जक्षतः / जाग्रत् जाग्रतो जाग्रतः / दरिद्रत दरिद्रतौ दरिद्रतः। नपुंसके तु शौ वा भवतीति ददति,ददन्ति इत्यादीनि भवन्ति / शकारान्तो विश्शब्दः-' यजसृज-' इत्यादिना पत्वे 'धुटस्तृतीयः' इति तृतीये विट् विड् विशौ विशः / विड्भ्यां विड्त्सु विट्सु / षकारान्तो नित्यबहुवचनान्तः संख्यावाची षष्शब्दः-षट् / षड् / षड़भिः / षड्म्यः / षड्भ्यः /