________________ (66) एषु / त्यदादीनां सम्बोधनं नेच्छन्ति / अन्वादेशे तु द्वितीयायां टायामोसि चेदम एनादेशो वक्तव्यः / एनम् एनौ एनान् / एनेन / एनयोः / मकारान्तः किम्शब्दः __किमः कस्तसादौ च / 2 / 1 / 40 / / त्यदादिसम्बन्धिनि स्यादौ तसादौ च परे किमः स्थाने क इत्यादेशः स्यात् / कः कौ के। कं को कान् / केन काभ्यां कैः / कस्मै काभ्यां केभ्यः / कस्मात काभ्यां केभ्यः / कस्य कयोः केषाम् / कस्मिन् कयोः केषु / मकारान्तः प्रशाम्शब्द: मो नो म्बोश्च / 2 / 1 / 67 / धातोर्मकारस्य नकारादेशः स्यात् पदान्ते म्वोश्च परयोः / प्रशान् प्रशामौ प्रशामः। प्रशामं प्रशामौ प्रशामः / प्रशामा प्रशान्भ्याम् प्रशान्भिः असत्त्वान्न नलोपः / प्रशामे प्रशान्भ्यां प्रशान्भ्यः / प्रशामः प्रशान्भ्यां प्रशान्भ्यः / प्रशामः प्रशामोः प्रशामाम् / प्रशामि प्रशामोः प्रशान्सु ।धकारान्त: तत्त्वबुधशब्द:'गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्च प्रत्यये ' 'धुटस्तृतीयः / 'विरामे वा ' तत्त्वमुद् तत्त्वमुत् तत्त्वबुधौ तत्त्वबुधः / तत्त्वबुधं तत्त्वबुधौ तत्त्वबुधः / तत्त्वबुधा तत्त्वभुभ्यां तत्त्वभुद्भिः / तत्त्वबुधे तत्त्वभभ्यां तत्त्वभुद्भ्यः / तत्त्वबुधः तत्त्वभुद्भ्यां तत्त्वभुद्भ्यः / तत्त्वबुधः तत्त्वबुधोः तत्त्वबुधाम् / तत्त्वबुधि तत्त्वबुधोः तत्त्वमुत्सु / हे तत्त्वमुद् हे तत्त्वभुत् हे तत्त्वबुधौ हे तत्त्वबुधः /