________________ अष्ट इत्यष्टन्शब्दस्य कृतात्वस्य रूपम् / अष्टाशब्दस्य जसू-शसोः स्थाने औकारादेशः स्यात् / अष्टौ / आत्त्वाभावपक्षे जस्शसोलुंकि अष्ट / अष्टौ, अष्ट / अष्टाभिः, अष्टभिः / अष्टाभ्यः, अष्टभ्यः / अष्टाभ्यः, अष्टभ्यः / अष्टानाम् / अष्टासु, अष्टसु / प्रिया अष्ट यस्येति विग्रहे तु प्रियाष्टाः, पियाष्टा प्रियाष्टौ, प्रियाष्टानों प्रियाष्टः, प्रियाष्टणः / अष्टन आत्वेऽपि अष्टाशब्दसम्बन्धिनोजस्शसोरभावेन न औकारादेशः, इति जसि दीर्घविसर्गौ / शसि 'लुगातोऽनापः' इत्याकारलोपः / आत्ताभावपक्षे राजनवत्कार्यम् / प्रियाष्टा प्रियाष्ट्रणा, प्रियाष्टाभ्यां प्रियाष्टभ्याम् , प्रियाष्टाभिः प्रियाष्टभिः / प्रियाष्टे प्रियाष्टणे, प्रियाष्टाभ्यां प्रियाष्टभ्याम् , प्रियाष्टाभ्यः प्रियाष्टभ्यः / प्रियाष्टः प्रियाष्टणः, प्रियाष्टाभ्यां प्रियाष्टभ्याम्, प्रियाष्टाभ्यः प्रियाष्टभ्यः / प्रियाष्टः प्रियाष्टणः, प्रियाष्टोः प्रियाष्णोः प्रियाष्टां प्रियाष्ट्णाम् , अत्राष्ट्रनो गौणत्वात् संख्यावाचिनः सम्बन्धिन आमोऽभावाद् न नामादेशः / प्रियाष्टि प्रियाणि, प्रियाष्टोः प्रियाष्ट्णोः प्रियाष्टासु प्रियाष्टसु / हे प्रियाष्टन् हे प्रियाष्टाः, हे प्रियाष्टौ हे प्रियाष्टानौ, हे प्रियाष्टाः हे प्रियाष्टानः / / मकारान्तः सर्वादिः इदम्शब्दः-इदम्+सि इति स्थिते अयमियं पुस्त्रियोः सौ।२।१।३८ / त्यदादिसम्बन्धिनि सौ परे इदमः स्थाने पुंसि स्त्रियां च क्रमेणायमियमौ स्याताम् / अयं पुमान् / इदम् औ इति स्थिते