________________ (63) 'ईडौ वा' इति अकारस्य वा लोपभवनाद् ब्रह्मन्नि ब्रह्महणि ब्रह्मनोः ब्रह्महसु / हे ब्रह्महन् हे ब्रह्महणौ हे ब्रह्महणः / एवं वृत्रहन्कर्महनादीनामपि // पूषा पूषणौ पूषणः / पूषणं पूषणों 'अनोऽस्य' इत्यकारलोपे पूष्णः / पूष्णा पूषभ्यां पूषभिः / पूष्णे पूषभ्यां पूषभ्यः। पूष्णः पूषभ्यां पूषभ्यः / पूष्णः पूष्णोः पूष्णाम् / पूषणि पृष्णि पूष्णोः पूषसु / हे पूषन् हे पूषणौ हे पूषणः // एवम् अर्यमा अयमणौ अर्यमणः / अर्यमणंम् अर्यमणौ अर्यम्णः इत्यादयः।। संख्यावाची नकारान्तः पञ्चन्शब्दो नित्यं बहुवचनान्त:-'डतिष्णः' इत्यादिना जस्शसोलुंकि पञ्च / पञ्च / पञ्चभिः / पञ्चभ्यः / ‘पञ्चभ्यः / पञ्चन्+आम् संख्यानां र्णाम् / 1 / 4 / 33 / रकार-पकार-नकारान्तानां संख्यावाचिनां सम्बन्धिन आमः स्थाने नामादेशः स्यात् / 'दी? नाम्य- इत्यादिना दीघे 'नाम्नो' इत्यादिना नो लुकि पञ्चानाम् / पञ्चसु / एवं सप्तन्-नवन्-दशन् इत्यादयः / अष्टन्शब्दस्य भेदः- अष्टम्+जस् वाऽष्टन आः स्यादौ / 1 / 4 / 52 / अष्टन्शब्दस्य तदतत्सम्बन्धिनि स्यादौ परे आकारोऽन्तादेशो 'वा स्यात् / ... अष्ट और्जस्-शसोः। 1 / 4 / 53 /