________________ (55) अथ व्यञ्जनान्ताः पुंलिङ्गाः। हकारान्तोऽनडुङ्शब्दः-अनडुङ्+सि इति स्थिते वाः शेषे। 1 / 4 / 82 / आमव्यविहितात् सेरन्यः शेषः। शेषे घुटि परेऽनडुह उकारस्य चतुर उकारस्य च वाः आदेशः स्यात् / अनड्वाह्+सि इति स्थिते अनंदुहः सौ / 1 / 4 / 72 / धुडन्तस्यानडुहो धुटः प्राक् सौ परे नोऽन्तः स्यात् / अनङ्वान्हसि इति जाते . पदस्य / 2 / 1 / 89 / पदान्ते वर्तमानस्य संयोगस्य लुगन्तादेशः स्यात् / 'दीर्घड्याब-' इत्यादिना सेलुकि च अनड्वान् / अनडवाही अनड्वाहः। अनड्वाहम् अनड्वाही अनडुहः / अनडुहा / अनडुङ्+भ्याम् इति स्थिते संस-ध्वंस-क्वस्सन हो दः / 2 / 1 / 68 / . स्रंस--सोः सन्तस्य क्वस्प्रत्ययान्तस्यानडुहश्च पदान्ते वर्तमानस्य दः स्यात् / अनडुद्भ्याम् अनडुद्भिः। अनडुहे अनडुद्याम्