________________ (407) [12] प्रचण्डवक्तृत्वबल-प्रसारि यशःप्रभोद्दीपितदिङ्मुखाब्जः / विद्वन्मणिः प्रौढनिबन्धकर्ता विभाति " विद्याविजयो" मुनीन्द्रः // [13] कवित्वशक्तिप्रसरद्यशःश्री- . स्तर्कप्रबन्धाप्रतिघातिमेधः / न्याये गतस्तीर्थ-विशारदत्वे न्यायादिमोऽसौ विजयो बभस्ति // . [14] गंभीरशास्त्रानुभवाग्रगण्यः .. परोपकारप्रवणान्तरात्मा / शान्तेषु दान्तेषु मतल्लिका च * श्रीमान् " जयन्ताद्-विजयो" महर्षिः॥ [15] " श्रीरत्न"-" सिंहौ” श्रमणौ, " महेश्वर " स्तथा " मृगेन्द्र " प्रमुखा मुनीश्वराः / . अदृष्यवैदुष्यजुषां विशेषका द्युसत्प्रदेशं कतिचित् समाश्रयन् //