________________ (47) श्रीणां तु विशेषोऽग्रे वक्ष्यते / ईकारान्तो डीप्रत्ययान्तः स्त्रीशब्दः स्त्री / स्त्री+औ इति स्थिते / स्त्रियाः / 2 / 1 / 54 / __ स्त्रीशब्दस्य स्वरादौ स्यादौ परे इयादेशः स्यात् / स्त्रियौ / स्त्रियः। ___ वाऽम्शसि। 2 / 1 / 55 / स्त्रीशब्दस्यामि शसि च परे इयादेशो वा स्यात् / त्रिय स्त्रीम् / स्त्रियौ / स्त्रियः स्त्रीः / स्त्रिया स्त्रीभ्यां स्त्रीभिः / ङितां दै-दासाद्यादेशे सति इयादेशे च स्त्रियै स्त्रीभ्यां स्त्रीभ्यः / स्त्रियाः स्त्रीभ्यां स्त्रीभ्यः। स्त्रियाः स्त्रियोः. स्त्रीणाम्। स्त्रियां स्त्रियोःस्त्रीषु / हे स्त्रि हे स्त्रियौ हे स्त्रियः। ईकारान्तश्रीशब्दः / जनो यां श्रयते सा श्रीः / स्वरादौ परे 'धातोरिवर्णो-' इत्यादिना इयादेशे श्रियों श्रियः / श्रियं श्रियो श्रियः / श्रिया श्रीभ्यां श्रीभिः / श्री+डे इति स्थिते / . . . वेयुवोऽस्त्रियाः। 1 / 4 / 30 / इयुव्स्थानिनौ यो नित्यस्त्रीलिङगे वर्तमानावीकारोकारों तदन्तात् परेषां ङितां स्थाने दै दास दाम् दाम् इत्यादेशा वा स्युः / स्त्रीशब्दं वनयित्वा / श्रिय श्रिये श्रीभ्यां श्रीभ्यः। श्रियाः श्रियः श्रीभ्यां श्रीभ्यः / श्रियाः श्रियः श्रियोः श्रीणां श्रियाम् /