________________ (46) धेनुभ्यां धेनुभिः / धेन्वै धेनवे धेनुभ्यां धेनुभ्यः / धेन्वाः धेनोः धेनुभ्यां धेनुभ्यः। धेन्वाः धेनोः धेन्वोः धेनूनाम् / धेन्वां धेनौ धेन्वोः धेनुषु / हे धेनो धेनू धेनवः / डीप्रत्ययान्त ईकारान्तो नदीशब्दः / नदी+सि इति स्थिते ' दीर्घड्याब्-' इत्यादिना सेलुचि नदी नद्यौ नद्यः / नदी नद्यौ नदीः। नद्या नदीम्यां नदीभिः / नदी+डे इति स्थिते। स्त्रीदूतः / 1 / 4 / 29 / नित्यस्त्रीलिङगे वर्तमानादीकारान्तादूकारान्ताच्च परेषां डितां स्थाने यथासंख्यं दै दास दास दाम् इत्येत आदेशा नित्यं स्युः / नद्यै नदीभ्यां नदीभ्यः / नद्याः नदीम्यां नदीभ्यः / नद्या: नद्योः नदीनाम् / नद्यां नद्योः नदीषु / हे नदि हे नद्यौ हे नद्यः / एवं ब्राह्मी-कुमारी-सुन्दरी-उभयी-गौर्यादीनामपि / स्त्रियाम् / 1 / 4 / 93 / / क्रुशः परस्य तुनः स्त्रियां तृनादेशः स्यात् / निनिमित्त एव / तत ऋकारान्तत्वाद ङीप्रत्यये क्रोष्ट्री / तस्य नदीवद्रूपाणि / ईकारान्तो लक्ष्मीशब्दः / तस्य ङीप्रत्ययान्तत्वाभावान्न सेलृक् / लक्ष्मीः लक्ष्म्यौ लक्ष्म्यः। हे लक्ष्मीः हे लक्ष्म्यौ हे लक्ष्म्यः / एवम् अवी-तरी-तन्त्री-ही-धी-श्रीणां सेलुग् न भवति / अवीः। तरीः / तन्त्रीः / हीः। धीः / श्रीः / शेषं नदीवन् / ही-धी