________________ ( 368) यस्माद् धातोः तुमादिस्तवाच्या क्रिया अर्थः प्रयोजनं यस्याः क्रियायाः, तस्यां क्रियायामुपपदे सत्यां धातोः तुम् णकच भविष्यन्ती भवन्ति / कर्तुं याति / कारकः याति / करिष्यामीति याति / क्रियायामिति किम् ? याचिष्ये इत्यस्य पुस्तकम् / क्रियार्थायामिति किम् ? धावतस्ते वासः पतिष्यति // कर्मणोऽण् / 6 / 3 / 14 / क्रियायां क्रियार्थायामुपपदे कर्मणः पराड् भविष्यदर्थाद् धातोः अण् प्रत्ययो भवति / कुम्भकारो गच्छति / काण्डलावो याति / भाववचनाः / 5 / 3 / 15 / क्रियार्थायां क्रियायामुपपदे भविष्यदर्थाद् घातोः भाववचना घनादयः प्रत्यया भवन्ति / पाकाय व्रजति / पक्तये गच्छति / पचनाय याति / / पद-रुजविश-स्पृशेर्घञ् / 5 / 3 / 16 / ___ एभ्यो धातुभ्यो घञ् प्रत्ययः कर्तरि भवति / पद्यते पत्स्यते अपादि वा इति पादः / रुजतीति रोगः / विशति वेशः / स्पशः / भावाकोंः / 5 / 3 / 18 / सर्वधातुभ्यो भावे कर्तृवर्जिते च सर्वस्मिन् कारके वाच्ये घञ् प्रत्ययो भवति / पाकः / रागः / इङोऽपादाने टिद् वा / 5 / 3 / 19 /