________________ (41) सर्वादेर्डस्पूर्वाः / 1 / 4 / 18 / .. . सर्वादेराबन्तस्य परेषां डितां स्थाने ये यै-यास-यास-याम् आदेशाः कथितास्ते डस्पूर्वाः स्युः / डित्त्वादन्त्यस्वरादिलोपे सर्वस्यै। सर्वस्याः। सर्वस्याः। सर्वासाम् / सर्वस्याम् / शेषं सुभद्रावत् / एवं विश्वादीनामपि स्त्रियां रूपाणि बोध्यानि / उभयशब्दस्य टित्त्वाद् डीप्रत्यये एकवचने बहुवचने च नदीवद् रूपाणि / तीयप्रत्ययान्तानां द्वितीयादीनां ङित्कायें सर्वादिवद् विकल्पेन भवनाद् द्वितीयस्यै द्वितीयायै / द्वितीयस्याः द्वितीयायाः / द्वितीयस्याः द्वितीयायाः। द्वितीयस्याम् द्वितीयायाम्। शेषं सुभद्रावद् / / .. आकारान्तो जराशब्दः / जरा / जरा+औ इति स्थिते / जराया जरस् वा। 2 / 1 / 3 / स्वरादौ स्यादौ परे जराया जरसादेशो वा स्यात् / जरसो जर / जरस: जराः / जरसं जराम् जरसौ जरे जरसः जराः। जरसा जरया जराभ्यां जराभिः / जरसे जरायै जराम्यां जराभ्यः। जरसः जरायाः जराभ्यां जराभ्यः / जरसः जरायाः जस्सोः जरयोः जरसां. जराणाम् / जरसि जरायां जरसोः जरयोः जरामु / हे जरे हे जरसौ जरे हे जरसः जराः। जरामतिक्रान्तः अतिनरः / अत्रापि 'एकदेशविकृतमनन्यवद्' इति न्यायाद् जर इत्यस्य जरसादेशो भवति / अतिनरः अतिजरसौ अतिमरौ अतिजरसः अतिजराः / अतिजरसम् अतिनरम् अतिजरसौ अतिनरौ अतिजरसः