________________ (43.) आबन्तस्य एकारः स्यात्, टा ओस् इत्येतयोः परयोः / सुभदया सुभद्राभ्यां सुभद्राभिः / सुभद्रा+डे इति स्थिते / आपो ङितां यै यास् यास् याम् / 1 / 4 / 17 / / आबन्तस्य डितां डेङसिङस्डीनां स्थाने यथासंख्यं यै यास्. यास् याम् इत्येते आदेशा भवन्ति ।सुभद्रायै सुभद्राभ्यां सुभद्राभ्यः। सुभद्रायाः सुभद्राभ्यां सुभद्राभ्यः / सुभद्रायाः सुभद्रयोः सुभद्राणाम् / सुभद्रायां सुभद्रयोः सुभद्रासु / सम्बोधने सुभद्रा+सि इति स्थिते / एदापः।१।४ / 42 / . आमच्यार्थे वर्तमानस्याबन्तस्य सिना सहकारादेशः स्यात् / हे सुभद्रे हे सुभद्रे हे सुभद्राः। एवं चन्दना-मा-सुलसा-यक्षाशाला-माला-हेला-दोलाऽऽदीनां रूपाणि ज्ञेयानि / नित्यदिद्विस्वराम्बार्थस्य इस्वः / 1 / 4 / 43 / / : येभ्यः शब्देभ्यः परेषां डितां 'स्थाने दै-दासादय आदेशा नित्यं स्युस्ते नित्यदितः, तेषां द्विस्वराणामम्बार्थानामावन्तानां चामन्त्रणार्थे सिना सह ह्रस्वः स्यात् / हे अम्ब / हे उक्क / हे अल्ल। शेष सुभद्रावत् / अम्बाडा-अम्बाला-अम्बिकादीनां द्विस्त्रराभावाद् हस्वाभवनेत मुभद्रावत् सर्वाणि रूपाणि / आरन्तानां 'सर्वादीनां उित्प्रत्यये विशेषः / सर्वा+डे इति स्थिते / यै इत्यादेशे कृते /