________________ (229) अन्वाङ्परेः / 3 / 3 / 34 / एभ्यः क्रीडतेः कर्तर्यात्मनेपदं भवति / अनुक्रीडते / आक्रीडते / परिक्रीडते। शप उपलम्भने / 3 / 3 / 35 / .. उपलम्भनं प्रकाशनं शपथो वा। तदर्थात् शपतेः कर्तर्यात्मनेपदं भवति / मैत्राय शपते शपथपूर्व स्वाभिप्राय मैत्रं ज्ञापयतीत्यर्थः / उपलम्भने इति किम् ? मैत्रं शपति। . आशिषि नाथः / 3 / 3 / 36 / . आशिष्येव नाथधातोः कर्तर्यात्मनेपदं भवति, नान्यत्र / सर्पिः नाथते सर्पिर्मे भूयादित्याशास्ते / आशिषोऽन्यत्र नाथति ईष्टे इत्यर्थः, याचते, उपतापयति वा। भुनजोऽत्राणे / 3 / 3 / 37 / अपालनार्थाद् भुनक्तेः कर्तर्यात्मनेपदं भवति / ओदन मुङ्क्ते / भुनन इति किम् ? ओष्ठौ निर्भुजति / अत्राण इति किम् ? महीं मुनक्ति / हृगो गतताच्छील्ये / 3 / 3 / 38 / गतं सादृश्य, ताच्छील्यं तत्स्वभावता सदृशतत्स्वभाव इत्यर्थः, स्तत्र वर्तमानाद् हृगः कर्तर्यात्मनेपदं भवति / पैतृकम् अश्वा अनुहरन्ते पितुरागतं सादृश्यं शीलयन्तीत्यर्थः। मातृकं गावोऽनुहरन्ती