________________ (228) अपस्किरः / 3 / 3 / 30 / अपात् किरतेः सस्सट्कात् कर्तर्यात्मनेपदं भवति / अपाच्चतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे / 4 / 4 / 95 / अपपूर्वात् किरतेः चतुष्पदि पक्षिणि शुनि च कर्तरि यथासङ्ख्यं हृष्टे अन्नार्थिनि आश्रयार्थिनि चार्थे स्पडादिर्भवति / अपस्किरते गौः हृष्टः, कुक्कुटो अन्नार्थी, या आश्रयार्थी च / वौ विष्किरो वा / 4 / 4 / 96 / - पक्षिणि वाच्ये विपूर्वात् किरतेः स्सडादिर्वा भवति। विष्किरः, विकिरो वा। प्रात तुम्पतेर्गवि / 4 / 4 / 97 / प्रपूर्वात तुम्पतेः गवि कर्तरि स्सडादिर्भवति / प्रस्तुम्पति गौः। उदश्वरः साप्यात् / 3 / 3 / 31 / - उत्पूर्वात् साप्यात् चरतेः कर्तर्यात्मनेपदं भवति / मार्गम् / उच्चरते साप्यादिति किम् ? धूम उच्चरति / समस्तृतीयया / 3 / 3 / 32 / तृतीयान्तेन योगे सति सम्पूर्वाच्चरतेः कर्तर्यात्मनेपदं भवति / अश्वेन संचरते। क्रीडोऽकूजने / 3 / 3 / 33 / कूजनमव्यक्तशब्दः, ततोऽन्यार्थात् संपूर्वात् क्रीडतेः कर्तर्यात्मनेपदं भवति / संक्रीडते / समित्येव क्रीडति / अकूजन इति किम् संक्रीडन्ति शकटानि /