________________ (31) नवभ्यः पूर्वेभ्य इस्मास्मिन् वा / 1 / 4 / 16 / / __ पूर्वादिभ्यो नवभ्यः परे ये इ स्मात् स्मिन् आदेशा उक्तास्ते वा स्युः / पूर्व पूर्वाः / पूर्वस्मात् पूर्वात् / पूर्वस्मिन् पूर्वे। एवं परादीनाम् / शेषं सर्ववत् . तीयं ङित्कार्ये वा। 1 / 4 / 14 / तीयप्रत्ययान्तं ङित्कार्ये सर्वादि; स्याद् / द्वितीयस्मै द्वितीयाय / द्वितीयस्माद् द्वितीयाद् / द्वितीयस्मिन् द्वितीये / शेषं रामवद् / नेमार्थप्रथमचरमतयायाल्पकतिपयस्य वा / 1 / 4 / 10 / नेमादीनि नामानि तयायौ प्रत्ययौ तेषां जस इर्वा स्यात् / नेमे नेमाः शेषं सर्ववत्। अर्धे अर्धाः। प्रथमे प्रथमाः। चरमेचरमाः। द्वितये द्वितयाः / द्वये द्वयाः / अल्पे अल्पा: / कतिपये कतिपयाः। शेषं जिनवत् / अकारान्तपुंलिङ्गो मासशब्दः / मासः मासौ मासाः / मासं मासौ। 8. मासनिशासनस्य शसादौ लुग् वा / 2 / 1 / 100 / एषां शसादौ स्यादौ परे लुगन्तादेशो वा स्याद् / मासः मासान्। मासा मासेन / माभ्यां मासाभ्याम् / माभिः मासैः। मासे मासाय / माभ्यां मासाभ्याम् / माभ्यः मासेभ्यः। मासः मासात् / माभ्यां मासाभ्याम् / माभ्यः मासेभ्यः / मासः मासस्य / मासोः