________________ (29) जस इ / 1 / 4 / 9 / - सर्वादेरकारान्तसंबन्धिनो जस इः स्याद् / 'प्रत्ययस्य' इति सर्वादेशे सर्वे / सर्व सौं सर्वान् / सर्व टा इति स्थिते टाप्रत्ययस्येनादेशे कृते अवर्णस्येत्यादिना एत्वे कृते / रवर्णाद् नो णः एकपदेऽनन्त्यस्या लचटतवर्गशसान्तरे / 2 / 3 / 63 / रेफषकारवणेभ्यः परस्य रष्वर्णैः सहकपदे स्थितस्यानन्त्यस्य नकारस्य णकारादेशः स्याद् / न चेद् निमित्तनिमित्तिनोरन्तरे लकारचटतवर्गाः शतौ च सन्ति / सर्वेण / सर्वाभ्याम् / सर्वैः / सर्व डे इति स्थिते सर्वादेः स्मैस्मातौ।१।४। 7 / अकारान्तसर्वादेः, सम्बन्धिनोर्डेडस्योः स्थाने यथासंख्य स्मैस्मातौ / स्तः सर्वस्मै सर्वाभ्यां सर्वेभ्यः / सर्वस्मात् सर्वाभ्यां सर्वेभ्यः / सर्वस्य सर्वयोः / सर्व आंम् इति स्थिते / अवर्णस्यामः साम् / 1 / 4 / 15 / अवर्णान्तस्य सर्वादेरामः स्थाने सामादेशः स्याद् / शेषे पूर्ववत् सर्वेषाम् / सर्व ङि इति स्थिते / / के स्मिन् / 1 / 4 / 8 / / - सर्वादेरकारान्तसम्बन्धिनो डे: स्थाने स्मिन् इत्यादेशः स्यात्।