________________ (28) ह्रस्वान्तादावन्तात् स्त्रीदन्ताच्च परस्यामः स्थाने नामादेशः स्याद् / जिन नाम् इति जाते दी| नाम्यतिसृचतसृपः / 1 / 4 / 47 / .. ___ तिसृचतसृषकारान्तरेफान्तवर्जितस्य शब्दसंबन्धिनः समानस्य दीर्घादेशः स्याद् नामि परे / जिनानाम् / सप्तम्येकवचने जिन ङि इति स्थिते ' अवर्णस्येवर्णादिनेति / सूत्रेण एत्वे जिने / जिनयोः / बहुत्वविवक्षायां जिन सु इति स्थित एटु बहुस्भोसि' इत्यनेनैत्वे कृते / नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शिड्नान्तरेऽपि / 2 / 3 / 15 / नाम्यन्तादन्तस्थात् कवर्गाच्च परस्य पदमध्ये स्थितस्य विहितस्य कृतसंबन्धिनो वा संकारस्य षकारादेशः स्याद्, शिटा नकारेण च व्यवधानेऽपि / जिनेषु / संबोधनविवक्षायामेकवचने जिन सि इति स्थिते / अदेतः स्यमोलक / 1 / 4 / 44 / आमंत्रणार्थे वर्तमानादकारान्तादेकारान्ताच परयोः स्यमोः लुक् स्याद् / हे निन / हे जिनौ / हे जिनाः / एवम् अजित संभवादीनामपि रूपाणि वेदितव्यानि / अकारान्तसादीना तु विशेषः-पर्वः / सवौं / सर्व जस् इति स्थिते