________________ (164) . . वेग्वर्जस्य य्वृदन्त्यं दीर्वं भवति / प्वादित्वाद हम्वे जिनाति / जिनीयात् / जिनातु / अजिनात् / ‘ज्याव्येव्यधिव्यचिव्यथेरिः' इति द्वित्वे पूर्वस्य इत्वे जिज्यौ / ' ज्याव्यधः ' इत्यादिना य्वृति निज्यतुः जिन्युः / जिज्यिथ, जिन्याथ जिन्यथुः जिन्य / जिज्यौ निज्यिव निज्यिम / जीयात् / ज्यातामि / ज्यास्यति / अज्यास्यत् / अन्यासीत् अन्यासिष्टाम् अज्यासिषुः। रीश् गतिरेषणयोः। रिणाति / रिणीयात् / रिणातु / अरिणात् / रिराय रिर्यतुः रियुः / रीयात् / रेतासि / अरैषीत् / लींश श्लेषणे / लिनाति / लिनीयात् / लिनातु / अलिनात् / लिलाय / लीयात् / लाता, लेता / अलैषीत् / ब्लीश वरण / ल्वीश् गतौ / कृ मृ शश् हिंसायाम् / कृणाति / चकार चकरतुः चकरुः / करिता, करीता / मृणाति / अमृणात् / ममार ममरतुः ममरुः / ममरिथ / मूर्यात् / मरितासि, मरीतासि / अमारीत् / शणाति / अशृणात् / शशार। ऋः शृदृषः / 4 / 4 / 20 / एषां परोक्षायामृर्वा भवति / शश्रतुः, शशरतुः / शश्रुः, शशरुः / शशरिथ / शीर्यात् / शरितासि, शरीतासि / अशारीत् / पृश् पालनपूरणयोः / पृणाति / पपार पप्रतुः, पपरतुः पप्रः, पपरुः / पपरिथ / पूर्यात् / परिता, परीता। परिष्यति, परीष्यति / अपारीत्। वृश् भरणे / बृणाति / बबार बबरतुः बबरुः / बूर्यात् / बरिता,