________________ (24) सैष कर्णो महात्यागी सैष भीमो महाबलः / 1 / बाहुलकादपि किञ्चिज्ञातव्यम् , तदुक्तम्- . कचित् प्रवृत्तिः कचिदप्रवृत्तिः कचिद् विभाषा कचिदन्यदेव विधेविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति // 1 // अनुक्तं सिद्धहेमव्याकरणादवसंयम् / इति विसर्गसन्धिः अथ विभक्तिनिगद्यते स्त्यादिविभक्तिः / 1 / 1 / 19 / अत्र स् इति त्यक्तानुबन्धस्य सेर्गहणम् , तीति त्यक्तानुबन्धस्य तिव् इत्यस्य ग्रहणम् , स्यादयः सुपर्यन्तास्तिवादयः स्यामहिपर्यन्ताश्च विभक्तिसंज्ञाः स्युः। तदन्तं पदम् / 1 / 1 / 20 / स्याद्यन्तं त्याद्यन्तं च नाम पदसंज्ञं स्याद् / अधातुविभक्तिवाक्यमर्थवन्नाम | नाम्नोऽर्थो द्विविधः-वाच्यो द्योत्यश्च / तत्र वाच्योऽर्थः स्वार्थद्रव्यलिङ्गसंख्याशक्तिभेदात् पञ्चप्रकारः यमाश्रित्य शब्दोऽर्थ.