________________ (23) रोर्यः / 1 / 3 / 26 / अवर्णाद् भोभगोऽघोभ्यश्च परस्य पदान्ते वर्तमानस्य रोः स्वरे परे य इत्यादेशः स्याद् / तस्य च ' स्वरे वा ' इत्यनेन वा लुक् / देवार+अत्र-देवायत्र, देवा अत्र / कर+इह-कयिह, क इह / भोर् +अत्र-भोयत्र, भो अत्र / ओघोर् +अत्र-अघोयत्र, अघोअत्र। भगोर् +अत्र-भगोयत्र, भगोअत्र. / अत्र लुकि सत्यां सन्धिर्न भवतीति / वाहर्पत्यादयः / 1 / 3 / 58 / अहर्पत्यादयः शब्दा निपातनात् साधवो भवन्ति वा / अहपतिः, अहः पतिः, अह पतिः; गीपतिः, गीः पतिः, गी पतिः; धूपतिः, धूः पतिः, धूपतिः इत्यादयः / एतदश्च व्यञ्जनेऽनग्नसमासे / 1 / 3 / 46 / एतदस्तदश्च परस्य सेटुक् स्याद व्यञ्जने परे। अकि प्रत्यये नन्समासे च न स्याद् / सः+चरति-स चरति, एष:+गच्छति-एष गच्छति / अनगिति किम् / एषको याति / अनसमासे किम् / अनेषो याति / तदः सेः स्वरे पादार्था / 1 / 3 / 45 / तदः परस्य सेक् स्यात् स्वरे परे। सा चेत् पादार्थापादपूरणी स्यादः / सैष दाशरथी रामः सैष राजा युधिष्ठिरः /