________________ (156) अथ तनादिगणः। यानुबन्धास्तनादयः / तयी विस्तारे ' कृग्तनादेः' इति कर्तरि शिति परे उप्रत्यये ' उश्नोः' इति अक्ङिति परे गुणे तनोति तनुतः तन्वन्ति / तनोषि तनुथः तनुथ / तनोमि / ' वम्यविति वा ' इति तनुवः, तन्वः तनुमः, तन्मः। तनुते तन्वाते तन्वते। तनुषे तन्वाथे तनुध्वे / तन्वे' तनुवहे, तन्वहे तनुमहे, तन्महे / तनुयात् तनुयाताम् तनुयुः / तनुयाः तनुयातम् तनुयात / तनुयाम् तनुयाव तनुयाम / तन्वीत तन्वीयाताम् तन्वीरन् / तन्वीथाः तन्वीयाथाम् तन्वीध्वम् / तन्वीय तन्वीवहि तन्वीमहि / तनोतु, तनुतात् तनुताम् तन्वन्तु / तनु, तनुतात् तनुतम् तनुत / तनवानि तनवाव तनवाम / तनुताम् तन्वाताम् तन्वताम् / तनुष्व तन्वाथाम् तनुध्वम् / तनवै तनवावहै तनवामहै। अतनोत् अतनुताम् अतन्वन्। मतनोः अतनुतम् अतनुत / अतनवम् अतनुव, अतन्व अतनुम अतन्म / अतनुत अतन्वाताम् अतन्वत / अतनुथाः अतन्वाथाम् अतनुध्वम् / अतन्वि अतनुवहि, अतन्वहि अतनुमहि, अतन्महि / ततान तेनतुः तेनुः / तेनिथ तेनथुः तेन / ततान, ततन तेनिव वेनिम / तेने तेनाते तेनिरे / तेनिषे तेनाथे तेनिध्वे / तेने तेनिवहे तेनिमहे / तन्यात् तन्यास्ताम् तन्यासुः / तन्याः तन्यास्तम् तन्यास्त / तन्यासम् तन्यास्व तन्यास्म / तनिषीष्ट तनिषीयास्ताम् तनिषीरन् / तनितासि / तनितासे / तनिष्यति / तनिष्यते / अतनिष्यत् / अतनिष्यत / अतानीत् , अतनीत् अतनिष्टाम् अतनिषुः /