________________ अथात्मनेपदम्। इंङ अध्ययने / अधीते अधीयाते ‘अनतोऽन्तोऽदात्मने अधीयते / अधीषे अधीयाथे अधीध्वे / अधीये अधीवहे अधीमहे / अधीयीत अधीयीयाताम् अधीयीरन् ।अधीताम् अधीयाताम् अधीयताम् / अधीष्व अधीयाथाम् अधीध्वम् / अध्ययै अध्ययावहै अध्ययामहै / अध्यैत अध्यैयाताम् अध्यैयत / अध्यैथाः अध्यैयाथाम् अध्यध्वम् ।अध्यैयि अध्यैवहि अध्यैमहि। गाः परोक्षायाम् / 4 / 4 / 26 / इधातोः परोक्षाविषये गा भवति / अधिनगे अधिनगाते अधिनगिरे / अध्येषीष्ट / अध्येता / अध्येष्यते। वाऽद्यतनीक्रियातिपत्त्योर्गीङ् / 4 / 4 / 28 / अद्यतनीक्रियातिपत्त्योरिङो गीङ् वा भवति / अध्यष्यत, अध्यगीष्यत / अध्यैष्ट अध्यैषाताम् अध्यैषत / अध्यगीष्ट अध्यगीषाताम् अध्यगीषत / शीक् स्वप्ने शीङ ए: शिति / 4 / 3 / 104 / शिति परे शीङ एभवति / शेते शयाते / शीडो रत् / 4 / 2 / 115 /