________________ (98) ऊशुः / उश्यात् / वशिता / वशिष्यति / अवशिष्यत् / अवासीत् , अवशीत् / असक् मुवि / अस्ति / इनास्त्योर्लक् / 4 / 2 / 90 / - श्नप्रत्ययस्यास्तेश्चाकारस्य शित्यविति लुम् भवति / स्तः सन्ति / अस्तेः सि हस्त्वेति / 4 / 3 / 73 / ___अस्तेः सकारस्य सादौ प्रत्यये परे लग्, एति परे तु हो भवति / असि स्थः स्थ / अस्मि स्वः स्मः / स्यात् स्याताम् स्युः / स्याः स्यातम् स्यात / स्याम् स्याव स्याम / अस्तु, स्तात् स्ताम् सन्तु / एधि, स्तात् स्तम् स्त / असानि असाव असाम / ' एत्यस्तेर्वृद्धिः ' इति वृद्धौ ‘सः सिजस्तेर्दिस्योः' इति ईति आसीत् आस्ताम् आसन् / आसीः आस्तम् आस्त / आसम् आस्व आस्म / अस्तिब्रुवो वचावशिति / 4 / 4 / 1 / अस्तिब्रुवोर्यथासङ्ख्यं भूवचावादेशौ भवतः, अशिति विषये / बभूव / भूयात् / भविता / भविष्यति / अभविष्यत् / अभृत् / इत्यदादिपरस्मैपदं समाप्तम् /