________________ (28) अफक्कीत् / 'तक हसने' / तकति / तकेत् / तकतु / अतकत् / तताक / अनादेशादेरेकव्यञ्जनमध्येऽतः / 4 / 1 / 24 // __ . अनादेशादियों धातुस्तत्सम्बन्धिनः स्वरस्यातोऽसहायव्यञ्जनमध्यगतस्य अवित्परोक्षायां सेटि थवि च परे एकारो भवति / तेकतुः / तेकुः / तेकिथ तेकथुः तेक / तताक, ततक तेकिन तेंकिम / तक्यात् / तकिता / तकिष्यति। अतकिष्यत्। अद्यतन्याम् 'व्यञ्जनादेोपान्त्यस्यातः / 4 / 3 / 47 / - व्यञ्जनादेर्धातोरुपान्त्यस्यातः परस्मैपदे सेटि सिचि परे वृद्धिर्वा भवति / अताकीत् , अतकीत्, अतकिषुः / ' तक कृच्छ्रजीवने - - उदितः स्वरानोऽन्तः / 4 / 4 / 98 / उदितो धातोः स्वरात् परो नोऽन्तो भवति / तङ्कति / तङ्केत् / तङ्कतु / अतङ्कत् / ततङ्क, ततङ्कतुः, तंतङ्कुः / तङ्क्याद् उदित्त्वाद् 'नो व्यञ्जनस्यानुदितः / इति लुग्न भवति / तङ्किता / तङ्किष्यति / अतङ्किण्यत् / अतङ्कीत् / 'शुक गंतौ' / शुकति / शुशोक शुशुकतुः शुशुकुः / अशोकीत् / 'बुक्क भषणे' बुक्कति / अबुक्कीत् / 'उखु राख लाख द्राखु घाखू शोषणालमर्थयोः . . .