________________ (25) 'सर्त्यत्तेर्वा ' आरत्, आरताम्, आरन् / पक्षे आत्,िआष्टीम्, आर्युः / 'तृ प्लवनतरणयोः' / तरति / तरेत् / तरतु / अतरत् / ततार। स्कच्छृतोऽकि परोक्षायाम् / 4 / 3 / 8 / स्कृ-ऋच्छ-ऋदन्तानां धातूनां सम्बन्धिनो नामिनो गुणो भवति परोक्षायां, न तु कोपलक्षितायाम् / तर+अतुस् तत्रपफलभजाम् / 4 / 1 / 25 / एषां स्वरस्यैद् भवति अवित्परोक्षायां सेट्यवि च परे, न तु द्विः / तेरतुः / तेरुः / तेरिथ, तेरथुः, तेर / ततार, ततर तेरिख तेरिम / ऋतां क्ङितीर् / 4 / 4 / 116 / ऋदन्तस्य धातोः किति ङिति च परे ईरादेशो भवति / तीर्यात् , तीर्यास्ताम् / . वृतो नवाऽऽनाशी:सिपरस्मै च / 4 / 4 / 35 / वृभ्यामृदन्तेभ्यश्च परस्येटो दीर्घो वा भवति, परोक्षायामाशिषि परस्मैपदे सिचि च परे न स्यात् / तरीता, तरिता / तरीष्यति, तरिष्यति / अतरिष्यत् , अतरीष्यत् / अतारीत्, आतारिष्टाम् , अतारिषुः / 'ट्धे पाने / धयति / धयेत / धयतु / अधयत /