________________ * अद्यतनी।५।२।४। . भूतेऽर्थे वर्तमानाद् धातोरद्यतनी भवति / अद्यतनी दि, ताम, अन्; सि, तम्, त; अम्, व, म / त, आताम्, अन्त; थास्, आथाम्, ध्वम् ; इ, वहि, महि / इमे प्रत्यया अद्यतनी भवन्ति, पाणिनीये तन्त्रे एषां लुडिति सज्ञा / भू+दि इति स्थिते-- सिजद्यतन्याम् / 3 / 4 / 53 / . धातोः परः सिच् भवति, अद्यतन्यां परस्याम् / भू+स+दि इति स्थिो-' अड् धातोरादिः ' इत्यादिनाऽडागमे अभू+स्+दि इति स्थितेपिवैतिदाभूस्थः सिचो लुप् परस्मै न चेड्। 4 / 3 / 66 / देति दासब्जा धातवो ग्राह्याः / पिब् इण् दा भू स्था इत्येतेभ्यः परस्य परस्मैपदस्य सिचो लुब् भवति / लुबयोगे न चेट / सिचो लुपि गुणे प्राप्ते. भवतेः सिज्लुपि। 4 / 3 / 12 / . भुवः सिचो लुपि गुणो न भवति / अभूत् , अभूताम्,अभू+: अन् इति स्थिते उवादेशे उपान्त्यस्योत्त्वे अभूवन् / अभूः, अभूतम्, अभूत / अभूवम् , अभूव, अभूम / 'भूङ् प्राप्तौ' इति त्वात्मनेपदीति भवते, भव+आते इति स्थिते