________________ (10) प्रयोजनं यस्याः तस्यां क्रियायामुपपदे वय॑दर्थाद्धातोः तुम्-णकच्-भविष्यन्त्यो भवन्ति / भविष्यन्ती स्यति, स्यतस्, स्यन्ति; स्यसि, स्यस्थस, स्यथ; स्यामि, स्यावस् , स्यामस / स्यते, स्येते, स्यन्ते स्यसे, स्येथे, स्यध्वे; स्ये, स्यावहे, स्यामहे / 3 / 3 / 15 // भविष्यति, भविष्यतः, भविष्यन्ति / भविष्यसि, भविष्यथः, भविष्यथ / भविष्यामि, भविष्यावः, भविष्यामः / सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः। 5 / 4 / 9 / सप्तम्या अर्थो निमित्तं हेतुफल-कथनादिसामग्री / कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्तिः क्रियातिपत्तिः, तस्यां सत्यां भविष्यदर्थाद् धातोः सप्तम्यर्थे क्रियातिपत्तिर्भवति / क्रियातिपत्तिः स्यत्, स्यताम् , स्यन् ; स्यम्, स्यतम्, स्यत स्यम्, स्याव, स्याम। स्यत, स्येताम्, स्यन्त; स्यथास, स्येथाम, स्यध्वम् ; स्ये, स्यावहि, स्यामहि / 3 / 3 / 16 / इमानि वचनानि क्रियातिपत्तिः भवन्ति, पाणिनीये लङ् इति सज्ञा। 'अड् धातोरादि' इति अडागमे इटि गुणेऽवादेशे च अभविष्यत्, अभविष्यताम् , अभविष्यन् / अभविष्यः, अभविप्यतम्, अभविष्यत / अभविष्यम्, अभविष्याव, अभविष्याम / अभविष्यद् युद्धशान्तिरिदानी समयं वस्तु समागमिष्यत् / /