________________ (6) दुर्वर्जितोपसर्गस्थादन्तःशब्दस्थाच्च रणवर्णात् परस्य णोपदेशस्य धातोः हिनुमीनानीनां च नकारस्य णो भवतिः / प्रमवाणि, अन्तर्भवाणि / दुर्वर्जनात् दुर्भवानि / प्र+नि+भवति इति स्थिते अकखाद्यपान्ते पाठे वा / 2 / 3 / 80 / पाठे धातूपदेशे ककारादिः खकारादिः षकारान्तश्च यो धातुस्तदन्यस्मिन् धातौ परे अदुरुपसर्गान्तःस्थाद्रादेः. परस्य ने कारस्य णो वा भवति / प्रणिभवति पक्षे प्रनिमवति / . प्रैषाऽनुज्ञाऽवसरे कृत्यपञ्चम्यौ / 5 / 4 / 29 / न्यत्कारपूर्विका प्रेरणा प्रैषः, कामचारोऽनुज्ञा, अवसरः प्रातकालता / एष्वर्थेषु धातोः कृत्यप्रत्ययाः पञ्चमी च भवति / अनद्यतने ह्यस्तनी / 5 / 2 / 7 / आन्याय्यादुत्थानादान्याच्याच संवेशनादहरुभयतः सार्धरात्रं वाऽद्यतनकालः तस्मिन्नसति भूतेऽर्थे वर्तमानाद् धातोः शस्तनी विभक्तिर्भवति / हस्तनी दिव् , ताम्, अन् ; सिन्, तम्, त; अम्ब् , व, म / त, आताम् , अन्त; थास् , माथाम्, ध्वम् ; इ, वहि, महि / 3 / 3 / 9 / इमानि वचनानि शस्तनी भवन्ति, पाणिनीये त्वेषां सन्ना लङ् / एकत्वविवक्षायां भू+अ+दि इति स्थिते.