________________ ( 239) अव्ययस्य स्वराणां मध्येऽन्स्यात् स्वरात् प्राक् कप्रत्ययो भवति, तद्योगे को द् च भवति / उच्चकैः, नीचकैः, धकिद् / कुत्सिताल्पाज्ञाते / 7 / 3 / 33 / एप्वर्थेषु वर्तमानाद् नाम्नो यथायोगं कबादयो भवन्ति / कुत्सितोऽल्पोऽज्ञातो वा अश्वः अश्वकः, गर्दभकः / अनुकम्पायां तद्युक्तनीतौ च गम्यमानायां नाम्नो यथायोगं कबादयो भवन्ति / अनुकम्पितः पुत्रः पुत्रकः / स्वपिषकि पुत्रक / एहकि कर्दमकेन दिग्धकोऽसि पुत्रक। अजातेन॒नाम्नो बहुस्वरादियेकेलं वा / 7 / 3 / 35 / अजातिमनुष्यनाम्नो बहुस्वरादनुकम्पायां एते प्रत्यया वा भवन्ति / देवदत्तियः, देवदत्तिकः, देवदत्तिलः, देवदत्तकः / पूर्वपदस्य वा / 7 / 3 / 45 / अनुकम्पायां स्वरादौ प्रत्यये परे पूर्वपदस्य लुग्वा भवति / दत्तियः, देवियः, एवं देविकः, देविलः 'द्वितीयात्स्वरादूर्ध्वम् / इति लुकि सत्याम् / 'हस्वेऽर्थे यथायोगं कबादयो वाच्याः हूस्वः पटः पटकः / एवं पुस्तककम् / .. वैकाद् द्वयोनिर्धार्ये डतरः / 7 / 3 / 52 / / समुदायादेकदेशो जातिगुणक्रियाद्रव्यैर्बुद्धया पृथक् क्रियमाणो निर्धार्यः / द्वयोरेकस्मिन् निर्धार्येऽथे एकशब्दाद् डतरो वा