________________ (200) निवृत्ते / 6 / 4 / 105 / - तृतीयान्ताद् निर्वृत्तेऽर्थे इकण भवति / अहा निवृत्तमाह्निकम् / मासिकम् / तं भाविभूते / 6 / 4 / 106 / द्वितीयान्तात् कालार्थाद् भाविनि भूते चार्थे इकण भवति / मासं भावी मासिक उत्सवः, मासं भूतो मासिको व्याधिः / ___ तस्मै भृताधीष्टे च / 6 / 4 / 107 / चतुर्थ्यन्तात् कालवाचिनो भृतेऽधीष्टे चार्थे इकण भवति / मासाय भृतो मासिकः, मासायाधीष्टो मासिकोऽध्यापकः / वेतनेन क्रीतो भृत उच्यते, सत्कारपूर्व व्यापारितस्त्वधीष्टः कथ्यते / सोऽस्य ब्रह्मचर्यतद्वतोः / 6.14 / 116 / प्रथमान्तात् कालविशेषवाचिनोऽस्येति षष्ठयर्थे इ.ण भवति ब्रह्मचर्थे ब्रह्मचारिणि चार्थे / मासोऽस्य ब्रह्मचर्यस्य तद् मासिक ब्रह्मचर्यम् , एवं वार्षिकम् , मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी / वार्षिको ब्रह्मचारी। __ प्रयोजनम् / 6 / 4 / 117 / प्रथमान्तादस्येति षष्ठयर्थे इकण भवति / प्रथमान्तं प्रयोमनं चेत् / जिनमहः प्रयोजनमस्य तद् जैनमहिकं देवागमनम् , निमशासनोद्धारः प्रयोजनमत्याः सा जैनशासनोद्धारिकी इदानीसनी देवद्रव्यचळ विजयधर्मसूरीणाम् / समयात् प्राप्तः / 6 / 4 / 124 /