________________ ( 191) तृतीयान्तात् प्रोक्ते इत्यर्थे यथाविहितं प्रत्ययो भवति / भद्रबाहुना प्रोक्तानि वस्तूनि भाद्रबाहवानि वस्तूनि। तीर्थङ्करेण प्रोक्ता तैर्थङ्करी त्रिपदी / गणधरेण प्रोक्तं गाणधरं द्वादशाङ्गम् / पाणिनिना प्रोक्तं पाणिनीयम् , हेमचन्द्रेण प्रोक्तं हेमचन्द्रीयम् , वृहस्पतिना प्रोक्तं वार्हस्पत्यं शास्त्रम् / . उपज्ञाते / 6 / 3 / 191 / प्रथमतः प्रागुपदेशेन विना ज्ञातमुपज्ञातम् / उपज्ञाते टान्ताद् यथाविहितं प्रत्ययो भवति / पाणिनिना उपज्ञातं पाणिनीयम्। श्रेयांसेनोपज्ञातं श्रेयांसीयं दानम् , जिनेन्द्रेणोपज्ञातं जैनेन्द्र व्याकरणम् / कृते / 6 / 3 / 192 / / तृतीयान्तात् कृतेऽर्थे यथोक्तं प्रत्ययो भवति / सिद्धसेनेन कृतः सिद्धसेनीयः स्तवः / इष्टकाभिः कृत ऐष्टकः प्रासादः / एवं माक्षिकम् / - अमोऽधिकृत्य ग्रन्थे / 6 / 3 / 198 / द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्ययो भवति / सुभद्रामधिकृत्य कृतो ग्रन्थः सुभद्रीयः / गच्छति पथिदूते / 6 / 3 / 203 / / अमन्ताद् यथोक्तं प्रत्ययो भवति / गमनकर्ता चेत् 'पन्या दूतो वा / मथुरां गच्छति यः पन्था दूतो वा माथुरः, एवं सौनः।