________________ ( 190) शब्दाचापि' जिह्वामूले भवः जिह्वामूलीयः, अङ्गुलौ भवः अङ्गुलीयः, मध्ये भवो मध्यीयः / 'गम्भीरपञ्चजनबहिर्दैवात् न्यो “बोध्यः / गम्भीरे भवो गाम्भीर्यः, एवं पाञ्चजन्यः, बाह्यः, दैन्यः / - तत आगते / 6 / 3 / 149 / . पञ्चम्यन्तादागतेऽर्थे यथापूर्वोक्तं प्रययो भवति / कुमारपालादागतः कौमारपालः सचित्रः, जिनादागतं जैनं शासनम्, नद्या आगतो नादेयः, ग्रामादागतो ग्राम्यः / नृहेतुभ्यो रूप्यमयटौ वा / 6 / 3 / 156 / __नृवाचिभ्यो हेत्वर्थाच्च तत आगतेऽर्थे रूप्यमयटौ वा भवतः। जिनदत्तादागतं जिनदत्तरूप्यम् , जिनदत्तमयम्, जिनदत्तीयं वा / एवं समरूप्यं, सममय, समीयम् / ' प्रभवति / 6 / 3 / 157 / पञ्चम्यन्तात् प्रभवत्यर्थे यथोक्तं प्रत्ययो भवति / हिमवतः प्रभवति हैमवती गङ्गा, एवं काश्मीरी वितस्ता / 'त्यदादिभ्यस्तु प्रभवत्यर्थे मयड् वाच्यः' तस्माद प्रभवति तन्मयम् / भवन्मयी। तस्येदम् / 6 / 3 / 160 / षष्ठयन्तादिदमित्यर्थे यथोक्तं प्रत्ययो भवति / तवेदं त्वदीयम्, पूर्णचन्द्रस्येदम् पूर्णचन्द्रीय सारस्वतम्, उपगोरिदमौपगवम् , - नद्या इदं नादेयम् / . . तेन मोक्ते / 6 / 3 / 181 /