________________ ( 188) ... सप्तम्यन्तादेष्वर्थेषु यथायोगमणादय एयणादयश्च भवन्ति / उत्से कृतो लब्धः क्रीतः संभूतो वा औत्सः / बहिः कृतः लब्धः क्रीतः संभूतो वा बाह्यः / नद्यां कृतो लब्धः क्रीतः संभूतो वा नादेयः / एवं राष्ट्रीयः, पारीणः, दाक्षिणात्यः, ग्रैष्मः, प्रावृषेण्यः, नैशः, नैशिकः / कुशले.। 6 / 3 / 95 / / * सप्तम्यन्तात् कुशलेऽर्थे यथाविहितमणेयणादयश्च भवन्ति / माथुरः, नादेयः / जाते / 6 / 3 / 98 / सप्तम्यन्ताज्जातेऽर्थे यथाविहितमणेयणादयश्च भवन्ति / माथुरः, औत्सः / 'प्रावृषस्तु जातेऽये इको वाच्यः 1 प्रावृषि जातो प्रावृषिकः। कालाद् देये ऋणे / 6 / 3 / 113 / / सप्तम्यन्तात् कालार्थाद् देये ऋणे यथाविहितमणादयो भवन्ति / मासे देयं ऋणं मासिकम्, एवं वार्षिकम् / . साधुपुष्यत्पच्यमाने / 6 / 3 / 117 / ... 'कालविशेषवाचिनः सप्तम्यन्तात् साधौ पुष्यति पच्यमाने चार्थे यथाविहितं प्रत्ययो भवति / हेमन्ते साधु हैमन्तिकम् / वसन्ते पुष्यति वासन्ती कुन्दलता / शरदि पच्यन्ते शारदाः शालयः उसे / 6 / 3 / 118 /