________________ (186) अमोऽन्तावोऽधसः / 6 / 3 / 74 / .. एभ्यः शेषेऽमो भवति / अन्तमः, अवमः, अधमः / ... पश्चादायन्ताग्रादिमः / 6 / 3 / 75 // पश्चाद् आदि अन्त अग्र इत्येतेभ्यः शेषेऽर्थे इमो भवति / पश्चाद् भवः पश्चिमः, आदौ भवः आदिमः, अन्ते भवोऽन्तिमः, अंग्रे भवोऽग्रिमः। मध्याद् मः / 6 / 3 / 76 / मध्यशब्दाच्छेषेऽर्थे मो भवति / मध्यमः / / अध्यात्मादिभ्य इकण् / 6 / 3 / 78 / एभ्यः शेषेऽर्थे इकण भवति / आत्मनीत्यध्यात्म तत्र भवमाध्यात्मिकम्, एवमाधिदैविकम, आधिभौतिकम् , और्वदेहिकम् इत्यादि। वर्षाकालेभ्यः / 6 / 3 / 80 / वर्षाशब्दात् कालविशेषवाचिनश्च शेषेऽथें इकण भवति / वर्षायां भवं वार्षिकम् ; मासे भवं मासिकम्, संवत्सरे भवं सांवसरिक प्रतिक्रमणम् / 'निशाप्रदोषात् / आभ्यां तु वा; निशायां मां शं नैशिकं वा, एवं प्रादोष प्रादोषिकम् / श्वसस्तादिः / 6 / 3 / 04 / अस्मात् कालार्थाच्छेषे इकम्, वा स्यात्, सच तादिः। थो भवः शौवस्तिकः।